________________
॥२४८ ॥
न्येधु-श्चैत्ये भूतगुहाभिधे ॥ सगच्छाः समवासार्पः, श्रीगुप्ताह्वयसूरयः ॥ ३॥ इतश्चैको भूरिविद्या-बलायो र्गव| पर्वतः ॥ परिबाडाययौ तस्यां, पुर्यामखिलशास्त्रवित् ॥४॥ लोहपट्टाबद्धतुन्दो, जम्बूशाखां दधत् करे ॥ पुरे | तत्राभ्रमलोकैः, पृष्टश्चैवमुवाच सः॥५॥ इदं तुन्दं महाविद्या-सम्भारेणातिभूयसा ॥ स्फुटतीति मया लोह-पदृकेन निबध्यते !॥६॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू-शाखासौ ध्रियते मया !॥७॥ ततो लोकाः 'पोट्टसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥८॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ॥९॥ तादृशो
वादिनोऽन्यस्या-ऽभावाद्भूमिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसूचकम् ॥ १०॥ परप्रवादाः सर्वेऽपि, * शून्या इतकि सोऽप्यथ ॥ उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ॥ ११ ॥ इतश्च तेषां श्रीगुप्त-सूरीणां भगि
नीसुतः ॥ शिष्यश्च रोहगुप्ताख्य-स्तत्रागच्छन् पुरान्तरात् ॥ १२॥ परिवादकारितां श्रुत्वोद्घोषणां तामदोवदत् ॥ करिष्ये वादममुना, तन्मावादय तानकम् ! ॥ १३॥ उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ ॥ परिवाद पटहापोह-वार्ता तेषां जगाद सः॥ १४ ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्ट कृतं त्वया ॥ स हि त्रिदण्डिको भूरि-विद्याढ्यो विद्यते यतः॥ १५ ॥ स च वादे पराभूतो, विद्याभिः प्रतिवादिनः ॥ करोत्युपद्रवं नाना-विधाभिर्दाम्भिकाग्रणीः ॥ १६ ॥ वृश्चिकान्पन्नगानाखू-न्मृगशूकरवायसान् ॥ शकुन्तिकाश्च कुरुते, स हि विद्याभिरु
UTR-1