SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन कम् ॥ तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ॥ २२॥ यतः-“इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्या दिकमपि ज्ञानं, विना निश्चीयते न हि ॥ २३ ॥” अथ चेद्वहुशो दृष्ट-संवादं व्यवहारतः ॥ उच्यते भक्तपानादे-आनं ।। २४२॥ निर्णयकारकम् ॥ २४ ॥ व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः ॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? | ॥ २५ ॥ छमस्थानां हि सर्वा स्या-प्रवृत्तिर्व्यवहारतः ॥ तदुच्छेदे तु तीर्थस्या-ऽप्युच्छेदो यत्प्रसज्यते ॥ २६ ॥ यदाहुः-“जइ जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ जओ वसं ॥ २७ ॥" व्यवहारं प्रपद्यध्वं, तद्यूयमपि साधवः ! ॥ इत्युक्ता अपि तैनैव, तत्यजुस्ते तमाग्रहम् ॥ २८ ॥ ततः | X कायोत्सर्गपूर्व, स्थविरैस्ते बहिष्कृताः ॥ पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ॥ २९ ॥ मौर्यवंश्यो नृपस्तत्र, * बलभद्राभिधोऽभवत् ॥ आगतान् खपुरेऽश्रौषी- धक्तः सोऽव्यक्तनिह्नवान् ॥ ३० ॥ सुश्रावकः स राजा तान्, प्रति-* बोधयितुं निजैः॥ भटैरानाययद्बद्धां-श्चैत्याद्गुणशिलाहयात् ॥ ३१ ॥ कटमर्दैन सर्वान-प्यमून्मर्दयतेति च ॥ सेवका नादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ ३२ ॥ कटमर्दे हि मद्यन्ते, कटाधःस्था जना द्विपैः ॥ इति द्विपान् कटां- | Ke श्चैवा-निन्यिरे राजपूरुषाः ॥ ३३ ॥ तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नस्मान् | हंसि महीपते ! ॥ ३४ ॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥ प्रोक्ते ते प्रोचिरे राज-नूनं साधूनवेहि | नः ॥३५॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ॥३६॥ युष्म UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy