________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥२४१ ।।
प्राग्यद्योगक्रिया सर्वां, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ ८॥ नियूंढयोगकार्या| स्ता-नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने बहम् ॥९॥ खाङ्गे च प्राविशं भूयो, युष्मद्यो* गसमाप्तये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ १०॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥
कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः !॥ ११ ॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् ॥ तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ॥ १२ ॥ अज्ञानाद्वन्दितोऽस्माभि-रियत्कालमसंयतः॥ तदन्योऽपि मुनिर्देवः, संयतो वेति वेत्ति कः ? ॥१३॥ यथाऽहं नाऽपरं वेनि, तथा सोऽपि न मामिति ॥ एवं सुरी वा साध्वी वे-स्यार्यिकामपि वेत्ति कः ? ॥ १४ ॥ ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ॥ १५॥ ध्यायन्त इति ते जाताः, शङ्कामिथ्यात्वमाश्रिताः॥ अव्यक्तभावस्वीकारा-बावन्दन्त परस्परम् ॥ १६ ॥ अव्यक्तभावं ते सर्वे-ऽन्येषामपि पुरस्तथा ॥ प्ररूपयन्तो व्यहरन् , सममेव यथारुचि! ॥१७॥ ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥१८॥ निर्णतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रतिपत्तव्या-स्तद्भावाः सकला अपि ! ॥ १९ ॥ न चेदं सङ्गतं युष्म-म्मतं युक्तिविरोधतः ॥ यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ! ॥ २०॥ चेद् ज्ञानस्याखिलस्थापि, न स्यान्निश्चयकारिता ॥ ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥२१॥ किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकार
UTR-1