________________
।। २३८॥
स्तवः॥६॥ लोकाकाशप्रदेशौघ-तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति, वक्तव्यो व्यक्तबुद्धिभिः ॥७॥ एनमर्थमधीयानो-ऽधमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ ८॥ एकेनापि प्रदेशेन, विहीनाः | सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चत् ? ॥९॥ तदा स एव वक्तव्यः, प्रदेशो जीवसंज्ञया ॥ तद्भाव एव जीवत्वं, भवतीति विनिश्चयात् ॥१०॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? ॥ न कस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ ११॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः ॥ घटस्येवाणवस्ते च, तुल्याः
सर्वे परस्परम् ॥ १२॥ तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? ॥ पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः X॥१३॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः ॥ तेषामन्यतमेनापि, विना स्याजीवता न यत् ॥ १४ ॥ अथा*न्तिमत्वादिति चेत् , तदपि स्यान्न यौक्तिकम् ॥ अन्तिमत्वं यतस्तस्या-ऽऽपेक्षिकं न तु तात्विकम् ॥ १५ ॥ आपे| क्षिकञ्च नैकत्र, नियतं स्यात्कदाचन ॥ अपेक्षावशतस्तस्य, सर्वत्रापि प्रवर्तनात् ॥ १६ ॥ तदेकेन विना तेन, जीवत्वं न यथाऽपरे ॥ लभन्ते न तथा सोऽपि, तैर्विनाप्नोति जीवताम् ॥ १७॥ ["ततश्च"] अणावेकत्र नो कुम्भ-व्यपदेशो भवेद्यथा॥तथैकस्मिन्प्रदेशे स्या-निर्देशोनात्मनोपि हि ॥१८॥ भवेत्प्रदेशादेकस्मा-त्पूर्णस्यार्थक्रियापि न ॥ पटकार्य हि नो तन्तो-रेकस्मादुपलभ्यते ॥१९॥ तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥ श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं जनुः॥२०॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः करुणापरैः॥ कदाग्रहगृहीतः स, न तत्कुमतमत्यजत् ! ॥२१॥
UTR-1