________________
उत्तराध्ययन
तृतीयमध्य यनम् (३
।। २३९ ।।
ततः कायोत्सर्गपूर्व, सूरीन्द्रः स बहिष्कृतः ॥ पर्याट पृथव्यां कुमते-र्जनान् व्युद्वाहयन् घनान् ॥ २२॥ पुर्यामाम- लकल्पायां, सोऽन्यदा पर्यटन् ययौ ॥ आम्रसालवने चास्था-त्स परिच्छदसंयुतः ॥ २३॥ तस्यां पुर्यां च मित्रश्रीसंज्ञोऽभूत् श्रावकाग्रणीः ॥ जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः ॥ २४ ॥ स तं सतत्रमायातं, श्रुत्वाऽन्यायकैः समम् ॥ तत्रोद्यानेगमत्तं च, प्रणनाम यथोचितम् ॥ २५॥ तद्देशनां च शुश्राव, निह्नवं तं विदन्नपि ॥ तदने तिष्यगुप्तोऽपि, निजं प्राकाशयन्मतम् ॥ २६ ॥ समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् ॥ मित्रश्रीन समं तेन, I विवादं विदधे तदा ॥ २७ ॥ किन्तु स प्रत्यहं तत्र, तं नन्तुं मायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदर्काय | तामपि ॥ २८ ॥ अथ जेमनवाराऽभू-द्ररिष्ठा तद्गृहेऽन्यदा ॥ तदोद्याने तमाह्वातुं, मित्रश्रीश्रावको ययौ ॥ २९ ॥ अद्य यूयं खपादाभ्यां, पावित्रयत मद्गृहम् । इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय तम् ॥ ३० ॥ सोऽथ हृद्यैः | खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः ॥ भृतानि बहु पात्राणि, ढोकयामास तत्पुरः ॥३१॥ खाद्यस्यैकस्यैकमंशं, तिलमात्रं च तस्य सः ॥ ददावेवं मोदकादे-रपि सर्वस्य वस्तुनः ॥ ३२ ॥ इत्थं कूरस्य सूपस्या-प्येकैकं सिक्थमार्प-* यत् ॥ घृतस्य बिन्दु शाकस्सा-प्यंशं तन्तुं पटस्य च ॥ ३३ ॥ स तु शिष्ययुतो दध्यो, नूनं केनापि हेतुना ॥ पूर्वमेवं ददात्येष, पश्चात्पूर्ण प्रदास्यति ॥ ३४ ॥ मित्र श्रीस्तु तदा प्रोचे, बन्धूनेवं खयं नमन् ॥ द्रुतं नमत भो! यूयं, निर्ग्रन्थान् प्रतिलम्भितान् ! ॥ ३५ ॥ ततः सशिष्यः सोऽवादी-किं वयं धर्षिता इति ॥ मित्रश्रीरब्रवीद्यूयं, मयका
UTR-1