SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ॥ २३७॥ तोक्तिभिः ॥ ६७॥ एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामर्ध-मासिकी प्रविधाय च ॥६८॥ तत्पातकमनालोच्य, मृतः षष्ठे सुरालये॥ त्रयोदश समुद्रायुः, सुरः किल्लिषिकोऽभवत् ॥ ६९॥[युग्मम्] विपन्नं तं समाकर्ण्य, प्रभुं पप्रच्छ गौतमः ॥ जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ॥ ७० ॥ जिनो जगौ षष्ठकल्पे, सोऽभूत्किल्बिषिकः सुरः ॥ गणी स्माह कुतो घोर-तपसोऽप्यऽस्य सा गतिः ॥ ७१ ॥ जिनोऽप्यधाद्धर्मगुरू-पाध्यायादेर्विरोधतः ॥ जमालिस्तां गतिं लेभे, कृतभूरितपा अपि !॥ ७२ ॥ ततश्युत्वा क स खामिन् ! यास्यतीति पुनर्जिनम् ? ॥ पप्रच्छ गौतमखामी, ततोऽवादीददो विभुः ॥ ७३ ॥ तिर्यनुनाकिषु भवान् कतिचिद्भमित्वा, सिद्धिं गमिष्यति चिरेण ततश्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरत्नमिव दुर्लभ एव | बोधिः ॥ ७४ ॥ इति प्रथमनिह्नवकथा ॥१॥ ___ अथ वीरविभोर्ज्ञानात् , षोडशाच्या बभूवुषः ॥ निह्नवस्य द्वितीयस्य, वृत्तान्तं वच्मि तद्यथा ॥ १॥” पुरा पुरे | राजगृहे, चैत्ये गुणशिलाभिधे ॥ वसुसंज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥२॥ तेषामशेषपूर्वाधि-पारगाणां मनखिनाम् ॥ शिष्योऽभूतिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ ३ ॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवप्रदेशविषय-स्तस्यार्थोऽयमुपागमत् ॥ ४॥ एकः प्रदेशो जीवस्य, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पञ्च-संख्यातासंख्यका अपि ॥ ५॥ यावत्प्रदेशेनाऽप्यनो, जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण-व्यपदेशो न वा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy