________________
।। २३६ ॥
मे! ॥ ५२ ॥ इत्युक्त्वा सा ययौ पार्थे, जमालेः सपरिच्छदा ॥ तस्याग्रे चावदन्नैका, युक्तीर्जिनमतानुगाः ॥५३॥ तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं, सुगन्धिद्रव्यवासनैः॥५४ ॥ ततः सा सपरीवारा, गतशेषाश्च साधवः ॥ हित्वा दुर्मतमग्नं तं, श्रीमहावीरमाश्रयत् ॥ ५५॥ तदा च भगवांश्चम्पानगरी पाव
यन्नभूत् ॥ जमालिरपि नीरोग-श्चम्पायामगमत्ततः ॥५६॥ तत्र चैत्ये पूर्णभद्रा-ऽभिधाने तस्थुषोऽर्हतः ॥ पार्थे | गत्वा नातिदूरे, स्थित्वा चैवमुवाच सः॥ ५७॥ भगवन् ! भवतः शिष्या-च्छद्मस्था बहवो यथा ॥ परलोकं गता
नाहं, विज्ञेयः किल तादृशः! ॥ ५८ ॥ यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः ॥ जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ ५९॥ जमाले! केवली जात-स्त्वं चेदेतत्तदा वद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥६॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् ॥ ततो जगाद भगवान् , जमाले ! शृणु मद्वचः॥६१॥ प्रश्नस्यास्योत्तरे मद-च्छक्ताः शिष्याः सहस्रशः ॥ छद्मस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ॥६२॥ अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्यते, शाश्वताशाश्वतौ सदा ॥६३॥ तथा हि द्रव्यरूपेण, लोकः शाश्वत उच्यते ॥ अशाश्वतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ॥ ६४ ॥ द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः ॥ नृदेवत्वादिपर्याय-परावृत्तेस्त्वऽशाश्वतः ॥६५॥ इति खामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपार्थाच निर्गत्य, खैरं पर्याट भूतले ॥६६॥ निह्नवत्वाच संपेना-ऽखिलेनापि बहिष्कृतः ॥ स व्युदग्राहयलोकान् , बहुभिः कुम
UTR-1