SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्य. | यनम् (३) ।। २३५ ।। स्योत्थापने जनः ॥मिथ्यात्वं लभते तस्मा-दिदमालोचय द्रुतम् ॥३८॥ तैरित्युक्तोऽपि नात्याक्षी-जमालिः खाग्रहं यदा ॥ तदा विहाय तं केचि-न्मुनयो जिनमाश्रयन् ॥ ३९॥ केचित्तु श्रद्दधानास्त-मितं तस्थुस्तदन्तिके ॥ अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥ ४० ॥ तदग्रेऽपि जमालिस्त-न्मतं प्राग्वन्यरूपयत् ॥ पूर्वने हात्साऽपि सर्वे, प्रत्यपद्यत तत्तथा ॥४१॥ गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां खपतेर्मतम् ॥४२॥ शय्यातरस्य टण्कस्या-ऽप्यग्रे सा तदवोचत ॥ स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं विशुद्धधीः॥४३॥ उत्थापयत्यसौ जैन, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये क्वापि युक्तिभिः ॥४४॥ ध्यात्वेति सोऽब्रवीदायें !, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीथ तद्विदः ॥ ४५ ॥ कुलालः सोऽन्यदा पक्क-भाण्डान्युद्वर्तयन्वयम् ॥ खाध्यायकरणैकाग्र-श्रीवीरदुहितुः पटे ॥४६॥ चिक्षेप ज्वलदङ्गारं, धीमान्केनाप्यलक्षितम् ॥ ततः पटं दह्यमानं, वीक्ष्य सा ब्रतिनी जगौ॥ ४७ ॥ [युग्मम् ] संघाटी मम दग्धेयं, भो टण्क ! त्वत्प्रमादतः ॥ टण्कोऽवादीद्दह्यमाना, दग्धेति प्रोच्यते कथम् ? ॥ ४८ ॥ भवन्मते हि सम्पूर्ण-संघाटीदहने खलु ॥ दग्धा संघाटीति वक्तुं, युक्तं न पुनरन्यथा ! ॥ ४९ ॥ अथ चेद्भगवद्वाक्यं, स्वीक्रियेत तदा ह्यदः ॥ वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥५०॥ तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य!, साध्वहं |बोधिता त्वया !॥५१॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् ॥ यत्तु तषितं तस्य, मिथ्यादुष्कृतमस्तु UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy