SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ ।। २३४ ।। मेव कृतं' तस्मा-द्यौक्तिकं भो महर्षयः!॥ तदमुं मामकं पक्षं, कक्षीकुरुत सूनृतम् ! ॥ २४ ॥न च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? ॥ यद्र्यात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ॥२५॥ एवं विप्रवदन्तं तं, जमालिं मार्गविच्युतम् ॥ स्थविराः प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः ? ॥ २६ ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः॥ वचनेऽपि च नो तेषां, दोषलेशोऽपि सम्भवेत् ॥ २७ ॥ [तथाहि-]आद्यक्षणे चेत्कार्यस्यो- त्पत्तिर्न स्यात्तदा कथम् ॥ क्षणान्तरे तदुत्पत्तिः, स्यात्क्षणत्वाविशेषतः ॥ २८॥ उक्तञ्च-"आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा पटे॥ अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ॥ २९॥" न चाऽध्यक्षविरोधोऽपि, सम्भवेदिह कर्हिचित् ॥ संस्तीर्यते यद्वस्त्रादि, तद्धि संस्तृतमेव यत् ॥ ३० ॥ यावत् प्राक् संस्तृतं तावत् , पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा-नाऽनवस्थापि विद्यते ॥ ३१॥ यच्चारम्भक्षणे कुम्भो-पलम्भोऽस्त्विति भाषितम् ॥ तदप्यसद्यदन्यस्या-रम्भेऽन्यद् दृश्यतां कथम् ? ॥ ३२ ॥ तदा हि शिवकादीना-मेवावान्तरकर्मणाम् ॥ वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥३३॥ कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलबुद्धितः ॥ ३४ ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन-श्छद्मस्थानां भवादृशाम् ! ॥ ३५॥ | सर्वज्ञोऽप्यनृतं ब्रूया-दिति त्वद्वचनं पुनः ॥ सतां न श्रोतुमप्यर्ह, मत्तोन्मत्तप्रलापवत् ! ॥ ३६ ॥ तजैनेन्द्रं वचस्तथ्यं, मा दूषय महामते ! ॥ दुष्कर्मणाऽमुना मास्म-भ्राम्यस्संसारसागरे!॥३७॥ एकस्यापि जिनोक्तस्य, पद UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy