________________
उत्तराध्ययन
।। २३३ ।।
पञ्चशतीं च ताम् ॥ प्रभुस्तस्मै ददौ शिष्य तया मुख्यं विधाय तम् ॥ ९ ॥ सोऽन्यदा स्वामिनं नत्वा पप्रच्छेति कृताञ्जलिः ॥ सतत्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ॥ १० ॥ लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् ॥ | अनिषिद्धं ह्यनुमत-मिति मेने तदा स तु ॥ ११ ॥ निरगाच प्रभोः पार्श्वा - द्विहर्तुं सपरिच्छदः ॥ क्रमाच पुर्या श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ १२ ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् ॥ अन्तप्रान्ताशनैर्दाघ - ज्वरः प्रादुरभून्महान् ॥ १३ ॥ उपविष्टतया स्थातु-मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! ॥ १४ ॥ ततः संस्तारकं कर्तुं प्रवृतान् त्रतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः ॥ १५ ॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते । तैरित्युक्ते परिभ्रष्ट - सम्यक्त्वः स व्यचिन्तयत् ॥ १६ ॥ क्रियमाणं कृतमिति', | जिनोक्तं सूनृतं कथम् ? ॥ संस्तारको यत्संस्तीर्य - माणोऽप्येष न संस्तृतः ! ॥ १७ ॥ तदध्यक्षविरुद्धत्वा - तन्न सङ्गति| मङ्गति ॥ विमृश्येत्यखिलान्साधू - नाहूयैवमभाषत ॥ १८ ॥ 'क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् ॥ मिथ्या|ध्यक्षविरुद्धत्वा-च्छैत्यं हुतभुजो यथा ! ॥ १९ ॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्कचित् ॥ संस्तारको यत्सं| स्तीर्य - माणोऽप्येष न संस्तृतः ॥ २० ॥ निष्पद्यते क्षणव्यूह - र्यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य - समयेऽपि निगद्यते ? ॥ २१ ॥ प्रारम्भेऽपि कृतं चेत्स्या - तदाऽन्यत्र क्षणत्रजे ॥ कृतस्यैव विधानेना - ऽनवस्था स्यादनाहता ! २२ ॥ सत्यप्येवं मन्यते चेत्क्रियमाणं कृतं तदा ॥ घटादेरुपलम्भोऽस्तु प्रारम्भक्षण एव हि ॥ २३ ॥ 'कृत
तृतीयमध्ययनम् (३)
UTR-1