________________
॥२३२॥
जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः २।अव्यक्ताः संयतादिज्ञाने सन्देहवादिन आषाढाचार्याज्जाताः३।सामुच्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाताः ४ ॥१॥ द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गंगाचार्याजाताः ५। त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' वैशेषिकाभिमतषट्पदार्थनिरूपकत्वादुलूकगोत्रत्वाच्च पडुलूको रोहगुप्तस्तस्मादुत्पत्तिः ६ । स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चकवत् , अबद्धञ्चाऽसंबद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवावद्धिका| नामुत्पत्तिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥२॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं-"श्रीवीर
ज्ञानतो वर्षे-श्चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥ १ ॥"* पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनखसुः ॥ सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥२॥ जगत्रयमनोहारि| दर्शना प्रियदर्शना ॥ श्रीवीरखामिदुहिता, प्रिया तस्याऽभवत् प्रिया॥३॥ अन्येास्तत्र भगवान् , श्रीवीरः समवासरत् ॥ जमालिर्जायया साकं, सार्व नन्तुमगात्तदा॥४॥खामिदेशनया जात-संवेगः संयमोत्सुकः॥ गृहं गत्वाग्रहीत्पित्रो-नुज्ञां स कथञ्चन ॥५॥ महोत्सवैस्ततो विश्व-श्लाघ्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राव्रजत्पञ्च-शतक्षत्रियसंयुतः ॥६॥ तदा च खामिनः पुत्री, तत्प्रिया प्रियदर्शना ॥ प्राब्राजीत्खामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥७॥ जमालिश्रमणः सोऽथ, विहरन् स्वामिना समम् ॥ पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ ८॥ ततः साध्वीसहस्रं त- साधु
UTR-1