________________
।। २२८ ॥
* संसारे भवे, तत्रापि क्वेत्याह- नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह-कर्माणि ज्ञानावर| णीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निवर्त्य तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः, 'विस्संभिअत्ति' प्राकृतत्वादनुखारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, क्वचित्कदाचिदुत्पत्त्या सर्वजगद्यापनादुक्तं च-"नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि ॥ जम्मणमरणाबाहा,जत्थ जिएहिं न संपत्ता ॥१॥" | ततोऽवाप्याऽपि नरजन्म खकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुन| नरजन्मेति सूत्रार्थः ॥ २॥ एतदेव स्पष्टयति2 मूलम्-एगया देवलोएसु, नरएसुवि एगया ॥ एगया आसुरं कायं अहाकम्मेहिं गच्छइ ॥३॥ * व्याख्या-एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, ए- कदा दुष्कर्मोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं कायं निकायं, 'अहाकम्मेहिति' यथाकर्मभिस्तत्तद्गत्यनु
रूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपःप्रभृतिभिः, 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण
योग इति सूत्रार्थः ॥३॥ . मूलम्-एगया खत्तिओ होई, तओ चंडालबोक्कसो ॥ तओ कीडपयंगो अ, तओ कुंथुपिवीलिआ ॥४॥
व्याख्या-एकदा क्षत्रियो राजा भवति,जन्तुरिति गम्यं,सूत्रवैचित्र्याबहुवचनप्रक्रमेप्येकवचनं,ततस्तदनन्तरं चण्डालो
UTR-1