SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ।। २२७॥ रन्ध्र ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः, पुमान्पुनर्विन्दति मर्त्यभावम् ! ॥ ५ ॥ इति युगदृष्टान्तो नवमः ॥ ९॥ अथ परमाणुदृष्टान्तस्तथा हि स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ स्वसामर्थ्यपरीक्षार्थ, गीर्वाणः कोप्यचूर्णयत् ॥ १ ॥ तच्च चूर्णमतिश्लक्ष्णं, निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥२॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः ॥ द्रुतमुलालयामास, तचूर्ण परितोऽखिलम् ॥ ३॥ तेन देवेन विक्षिप्ता-स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्भूता, अभजन्त दिशोदिशम् ॥ ४ ॥ अथ विश्वत्रये कोऽपि, शक्तिमान् विद्यते न सः ॥ यस्तं स्तम्भं पुनः कुर्या-तैरेव परमाणुभिः॥ ५॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः, केनापि निष्पादयितुं न शक्यः ॥ प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ॥ ६॥ इति ॥ यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना ॥ तैरेव पुद्गलैन स्या-त्तथा नृत्वेऽपि भावना ॥ ७॥ इति वा परमाणुदृष्टान्तो दशमः ॥ १० ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म-दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्म महोदयकरे कुरुत प्रयत्नम् ॥ ६२६ इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह| मूलम्--समावण्णा ण संसारे, नाणागुत्तासु जाइसु॥कम्मा नाणाविहा कटु, पुढो विस्संभिआ पया ॥२॥ व्याख्या-समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, ‘णेति' वाक्यालंकारे, क्वेत्याह UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy