SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ KE ॥ २२६ ।। * शेवाल-जालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ॥ २ ॥ तत्र चैकोऽवसत्कूर्मः, पुत्रपौत्रादि संयुतः ॥ ग्रीवां प्रसारयामास, स चान्दानां शते शते ॥ ३ ॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः ॥ | छिद्रं बभूव प्रबल-समीरणसमीरणात् ॥ ४ ॥ दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा ॥ रन्ध्रेण तेन ग्रीवाऽपि, Re| निरगाचर्मणो बहिः ॥ ५ ॥ ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् ॥ अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसि| प्मिये ॥ ६॥ महाश्चर्यमिदं खीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याह्वातुमात्मीया-न्मध्ये हृदमगाच सः ॥७॥ तानाहूय समेतस्तु, न लेभे पर्यटन्नपि ॥ तच्छिद्रं पवनोद्भूतैः, शेवालैः स्थगितं क्षणात् ! ॥ ८ ॥ कूर्मः पुनस्तत्र लभेत | रन्धं, पश्येच पूर्ण शशिनं कदाचित् ॥ परिच्युतो मर्त्यभवान्नरत्वं, लभेत जन्तुर्न तु धर्महीनः! ॥९॥ इति चर्मष्टान्तोऽष्टमः ॥ ८॥ अथ युगदृष्टान्तः तथा हि। अस्ति खयम्भुरमण-वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेधो-ऽसंख्ययोजनविस्तृतः ॥१॥ विहाय वलयं सर्वा| कारैर्जलचरै ते ॥ सर्वेषामपि वार्डीना-मन्तिमे तत्र नीरधौ ॥२॥ देवः कोऽपि दिशि प्राच्या, लीलया निक्षिपेयु गम् ॥ युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ॥३॥ [ युग्मम् ] तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिलाऽथ सा ॥ खयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन ? ॥ ४ ॥ प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्वयं साऽपि युगस्य UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy