________________
।। २२२ ।।
ष्यामि, तं वरं वसुधावरम् ॥ ३८ ॥ तत इन्द्रपुराधीश - स्येन्द्रदत्तस्य भूभुजः ॥ कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ ३९ ॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां वृद्धैः कुलामात्यै - श्रतुरङ्गचमूवृताम् ॥ ४० ॥ [ युग्मम् ] क्रमादिन्द्रपुरे साऽगा - दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशतुष्ट - चेता गुरुभिरुत्सवैः ॥ ४१ ॥ दध्यौ चाsशेष भूपेभ्यः कृतपुण्योऽस्मि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ! ॥ ४२ ॥ ध्यायन्निति प्रतिज्ञां च, तस्यास्तामवधारयन् ॥ अकारयन्नृपो भव्यं स्वयंवरणमण्डपम् ॥ ४३ ॥ काञ्चनस्तम्भसंलग्न-चञ्चन्माणिक्यतोरणे ॥ मौक्तिकस्वस्तिक श्रेणी - दन्तुरीभूतभूतले ॥ ४४ ॥ सुगन्धिपञ्चवर्णाढ्य - पुष्पप्रकरपूजिते ॥ विचित्रोलोचरचना - चित्रीयितजगत्रये ॥ ४५ ॥ अकाण्डोद्भूतसन्ध्याभ्र - पटलभ्रान्तिकारिभिः ॥ अभ्रंलिहैः पञ्चवर्णैः केतुलक्षैर्विभूषिते ॥ ४६ ॥ तस्मिंश्च मण्डपे शक्रा - स्थानमण्डपसन्निभे । इन्द्रदत्तो नृपः स्तम्भ - मेकमुच्चैरतिष्ठिपत् ॥४७॥ [ चतुर्भिः कलापकम् ] चत्वारि सृष्ट्या चत्वारि, संहत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचत्राणि, स्तम्भो च न्यवीविशत् ॥ ४८ ॥ तेषां चोपरि राधेति - प्रसिद्धां शालभञ्जिकाम् ॥ अस्थापयदधस्ताच्च, तैलसम्पूर्ण कुण्डिकाम् ॥४९॥ कुण्डीतैलस्थचक्रादि-प्रतिबिम्बानुसारतः ॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥ ५० ॥ ततः स भूपः सानन्दं, द्वाविंशत्या सुतैः समम् । पुराद्वहिःस्थे तत्रागा - न्मण्डपे सपरिच्छदः ॥ ५१ ॥ सुरेन्द्रदत्तसचिव - स्तत्रागा - सचिवोऽपि सः ॥ पौराश्च कोटिशस्तत्रा - ऽऽययुः कौतुकमीक्षितुम् ॥ ५२ ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती ॥
UTR-1