________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥ २१७॥
प्रत्युवाचाऽचलः खामि-नागा पारसकूलतः ॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ ३३५ ॥ भाण्डं दर्श- यितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन खयं वयम् ॥ २३६ ॥ महाप्रसाद इत्युक्तेऽचलेनाऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ २३७ ॥ मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ? ॥ २३८ ॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क-चौर्या विग्रहनिग्रहः ॥ २३९ ॥ नान्यस्यापि पुरोलीकं, वच्म्यहं किं पुनः | प्रभो ! ॥ तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं प्रति ॥ २४० ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः ॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ॥ २४१ ॥ तेषां च तोलने भार-वैषम्यादङ्ग्रिघाततः ॥ वंशवेधाच मञ्जिष्ठा-यंतर्मेने नृपोऽपरम् ॥ २४२ ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तास्वर्णरूप्यविद्रुमादि विनिर्ययौ ॥२४३॥ तत्प्रेक्ष्योत्पन्नकोपेना-ऽचलोऽवध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना! ॥ २४४ ॥ मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं बद्ध-मनपीपसन्निधौ ॥ २४५ ॥ गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां, सानासीति पृष्टवान् ? ॥ २४६ ॥ सोऽवादीद्धवनोद्योत-करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः? ॥२४७॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद ॥ नृपेणेत्युदितःप्रोचे-ऽचलस्तर्हि न वेद्यहम् ॥ २४८ ॥ ततः
UTR-1