________________
॥ २१६ ।।
वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ २२० ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच व्यर्थ त्वया विना ! ॥२२१ ॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ २२२ ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीपतेः॥२२३॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवनृपो देव !, मन्मुखेनेति याचते ॥ २२४ ॥ खामिन्मे देवदत्तायां, निविडं प्रेम वर्त्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ २२५ ॥ ततः प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते ॥ तत्किं विक्रमराजेन, राज्ञैतन्मात्रमर्थितम् ? २२६॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् ।। भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ! २२७॥ देवतादत्तराज्यश्रीः,प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मयै, 4 | तत्त्वया तत्र गम्यताम् ॥२२८॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं | पुरे ॥ २२९ ॥ सोऽथ वैषयिकं सौख्यं, भुजानो देवदत्त्या ॥ धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ॥ २३० ॥ ___ इतश्चागण्यपण्यौघं, भृत्वा पारसकूलतः ॥ आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाह्वयः ॥ २३१ ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ २३२ ॥ | ततः वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं प्रेक्षितुं सोऽगा-द्भपोप्यासनमार्पयत् ॥ २३३ ॥ तमुपालक्षयन्मक्षु, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीन्नृपोऽथ तम् ॥ २३४ ॥
UTR-1