SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्य| यनम् (३) ।। २१५ ॥ गम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागानुपान्तिकम् ॥ २०६॥ इत्यूचे च प्रभो ! दत्त, | RK तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ २०७ ॥ मूलदेवं विना नान्यः, कोऽपि | प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ २०८ ॥ अस्त्येवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावाती, तामवोचत माधवी ॥ २०९ ॥ रुष्टोऽथ पार्थिवः सार्थ- वाहमाहूय तं जगौ ॥ रे! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ॥ २१ ॥ देवदत्तामूलदेवी, रवभूतौ पुरे मम ॥ यत्त्वया धर्षिती तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ २११ ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूपश्वेत्यवदत्तदा ॥ २१२ ॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा-ऽऽनीते शुद्धिर्भवे| त्तव ॥ २१३ ॥ अचलोऽथ नृपं नत्वा-ऽन्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ॥ २१४ ॥ तया न्यूनतया भूपा-द्रीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ २१५ ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ २१६ ॥ प्राहिणोद्देवदत्तायै, लेखं सतपाणिना ॥ साऽपि तं वाचयामासा-ऽऽनन्दापूर्णमना इति ॥ २१७ ॥ [ युग्मम् ] खस्ति वेण्णातटान्मूलदेवेनोजयनीस्थिता ॥ आलिंग्यालाप्यते देव-दत्ता चित्ताजहंसिका ॥ २१८ ॥ अस्तीह कुशलं देव-गुरुपादप्रसादतः॥ त्वयाऽपि खाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ॥ २१९ ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ ऊचे UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy