SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। २१४ ।। वसन् ॥ गत्वोद्याने पञ्चमेहि, चम्पकद्रुतलेऽखपीत् ॥ ९९२ ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः ॥ १९३ ॥ हस्त्यश्वछत्र भृङ्गार - चामरा मन्त्रवासिताः ॥ पुरीमध्ये भ्रमन् राज्य - योग्यं मर्त्यं तु नाऽऽनुवन् ! ॥ १९४ ॥ ततो बहिर्भ्रमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रसुप्तमपरावृत्तच्छायं चम्पकसन्निधौ ॥ १९५ ॥ ततश्चक्रे हयो हेषां गजो गुलगुलायितम् | अभिषेकं च भृङ्गार - श्रामरौ वीजनं तथा ॥ १९६ ॥ पुण्डरीकं च तस्योर्द्ध, व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमुदितैर्जनैश्चक्रे जयारवः ॥ १९७ ॥ ततस्तं सिन्धुरः सौव - स्कन्धेऽध्यारोपयत्खयम् || प्रावीविशञ्च नगरे, नागरैर्निर्मितोत्सवे ॥ १९८ ॥ राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ॥ १९९ ॥ "देवतानां प्रभावेणा - वाप्तराज्यः कलानिधिः ॥ एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥ २०० ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवाङ्घ्रिपम् ॥ २०१ ॥” तन्निशम्याऽखिलं राज - मण्डलं भीतविस्मितम् । तस्याSवश्यमभूद्वश्यं, सौख्यं धर्मवतो यथा ॥ २०२ ॥ सोऽथ भूपो व्यधात्प्रीतिं प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो - जयनीखामिना समम् ॥ २०३ ॥ [ इतश्च - ] देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा - वेशकम्पितविग्रहा ॥ २०४ ॥ रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी - रसमअसमीदृशम् ॥ २०५ ॥ अतः परं समा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy