________________
उत्तराध्ययन
तृतीयमध्ययनम् (३)
॥ २१३॥
द्युतिम् ॥ खप्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ १७९ ॥ तदा कार्पटिको-ऽप्येकोऽद्राक्षीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-ऽन्येषां स्वप्नफलं ततः ॥ १८० ॥ स्वप्नार्थं तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं | साज्यमद्यत्वं, खण्डायुक्तं च लप्स्यसे !॥ १८१ ॥ स च कार्पटिकः प्राप, तावताऽपि परां मुदम् ॥ मूलदे-* वस्तु मूढानां, नो तेषां खप्नमब्रवीत् ॥ १८२॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चा-ऽन्येषां खेषां न्यवेदयत् ॥ १८३॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धिया निधिः ॥ मालिक प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्न-शास्त्रकोविदधाग्नि सः ॥ १८५ ॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्यवेदयत्॥ मूलदेवो निजं स्वप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥१८६॥ वत्स ! वक्ष्याम्यहं खप्न-फलं तव शुभे क्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ १८७ ॥ ततस्तं स्त्रपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ १८८ ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् ॥ तात ! दत्से कथं कारं, ततः सोऽप्येवमालपत् ॥ १८९ ॥ कुलं गुणाश्च ते वत्स!, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणौ कृत्य कृतार्थय ! ॥ १९ ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्या दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, खप्नादस्मान्नृपो भवान् ! ॥ १९१ ॥ हृष्टस्ततो मूलदेव-स्तदावासे सुखं
१ मध्येसप्तदिनं भावी ।। इति 'ग' संज्ञकपुस्तके ॥
UTR-1