________________
।। २१८ ।।
पृथ्वीपतिर्देव - दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्या - ऽचलोऽभूद्याकुलो भृशम् ॥ २४९ ॥ ततो विलक्षं क्ष्मान्यस्ते - क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगौ ॥ २५० ॥ दैवाद्विपदमाप्तस्य, कार्यमेवं त्वया - ऽपि मे ॥ तदेत्युक्तस्त्वया योऽभून्मूलदेवोऽयमस्ति सः ॥ २५१ ॥ तदिदं व्यसनं वित्त - देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि राज्ञा दीनदयालुना ॥ २५२ ॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ २५३ ॥ आगसा कुपितस्तेन, विचारधवलोनृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवददेव - दत्तादेवी यदा त्वयि । प्रसादमकरोन्मन्तु- र्मया सोढस्तदैव ते ॥ २५५ ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ त्रपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ २५६ ॥ भूपोऽपि भूरिमूल्यानि दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तोहि द्विषामप्युपकारिणः ॥ २५७ ॥ दूतं दत्वाऽऽत्मनो गन्तु - मवन्त्यां व्यसृजच्च तम् ॥ अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ २५८ ॥ विप्रो निघृणशर्माऽपि प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं मूल - देवभूपं ननाम च ॥ २५९ ॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः | अदृष्टसेवया तस्मै ददौ ग्रामं तमेव हि ॥ २६० ॥
सोse कार्पटिको श्रोषी - द्यचन्द्रग्रासलक्षणात् ॥ स्वप्नादासीन्मूलदेवो नृपः सम्यग्विचारितात् ॥ सोऽचिन्तयद्धियां, यत्स्वप्न स्तादृशस्तदा । आवेदनेन मन्दानां नीतो निष्फलतां मया ! ॥ २६२ ॥
२६१ ॥ ततः तदद्यापि हि
UTR-1