________________
उत्तराध्ययन
।। २०५ ।।
प्रदर्शय ॥ ६४ ॥ इत्थं तया सनिर्बन्ध - मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिका रूप - विपर्ययकरीं मुखात् ॥६५॥ नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् || आविश्वक्रे निजं रूपं, जगज्जनमनोहरम् ॥ ६६ ॥ [ युग्मम् ] ततस्तं दृक्चकोरैक- चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम - हर्षोच्चैः सा विसिष्मिये ॥ ६७ ॥ प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यंगमात्मना ॥ ६८ ॥ अथ द्वावपि तौ स्नात्वा, व्यधत्तां सह भोजनम् ॥ देवदूष्ये ततो देव - दत्तादत्ते स पर्यधात् ॥ ६९ ॥ ततो विदग्धगोष्ठीं तौ, क्षणं रहसि चक्रतुः ॥ मूलदेवं तदा देव - दत्तैवमवदन्मुदा ॥ ७० ॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः ! ॥ ७१ ॥ यतः - " नयणेहिं को न दीसह, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणयइ तं माणुसं विरलं ॥ ७२ ॥ किञ्च - " भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ ७३ ॥ ये तु मन्दारवद्रूप - वन्तः सारगुणान्विताः ॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ! ॥ ७४ ॥” नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मच्चित्ते, तथा स्थेयं ममालये ॥ ७५ ॥ सोऽथाऽवादीदयि ! द्रव्य - हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ॥ ७६ ॥ सर्वेषामपि जन्तूनां प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या - जनानां तु विशेषतः ! ॥ ७७ ॥ गुणानुरागाद्गणिका, यदि स्यान्निर्धने रता । तदा पार्जनाभावात्सीदेत्तस्याः कुलं सदा ! ॥ ७८ ॥ वेश्या स्माह गुण
तृतीयमध्य यनम् (३)
UTR-1