________________
।। २०४ ।।
ततः स तस्य भरत - व्याख्यां खैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ॥ ५० ॥ उवाचानुचितं किञ्चिद्विवभूतिस्ततो रुपा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥ ५१ ॥ रक्ताचार्याङ्गनाखेव त्वमेवं नाटयेः कुघम् ॥ न त्वन्यत्रेति तेनोक्के, हीणो मौनं बभार सः ॥ ५२ ॥ देवदत्ताऽथ तं खर्वे, पश्यन्ती खिग्धया हशा ॥ विश्वभूतेर्विलक्षत्वं-मपनेतुमदोऽवदत् ॥ ५३ ॥ भवन्तो नाधुना स्वस्थाः सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ॥ ५४ ॥ जायते नाट्यवेला त - द्देवदत्ते ! ब्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाद्ययौ ॥ ५५ ॥ देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥ ५६ ॥ आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमावयोः ॥ उवाच खर्वः कुर्वेह - मभ्यङ्गं ते यदीच्छसि ! ॥ ६७ ॥ देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? | सोवादीद्वेनि नो किन्तु, तज्ज्ञपार्श्वे स्थितोस्म्यहम् ॥ ५८ ॥ दास्यानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ प्रारेभेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ॥ ५९ ॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ ६० ॥ प्रकृत्येदृशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य तत्प्रादुष्कारयाम्यहम् ॥ ६१ ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाने प्रणम्य च ॥ इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्भुतम् ! ॥ ६२ ॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यातस्त्वं गुणैरेव तादृशैः ॥ ६३ ॥ तत्ते खाभाविकं रूपं, द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे
UTR-1