________________
।। २०६ ।।
ज्ञानां प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्या - गुणाः किन्तु निबन्धनम् ॥ ७९ ॥ धनं हि बाह्यमिभ्यास्तद्वहिरेव स्पृशन्ति नः । चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ! ॥ ८० ॥ यतः - "सज्जनानां वचो द्रव्यसहस्रादतिरिच्यते ॥ खिग्धं चालोकितं लक्षा - सौहार्द कोटितस्तथा ॥ ८१ ॥ खदेशः परदेशश्चा - ऽन्येषां न तु कलावताम् ॥ सकलो हि शशीव स्यात्पूजनीयो जगत्रये ॥ ८२ ॥” तदन्वहं त्वयाऽवश्य - मागन्तव्यं ममौकसि ॥ सनिर्वन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ ८३ ॥ ततो मिथोऽनुरक्तौ तौ तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः खैरं करेणुकरिणाविव ॥ ८४ ॥ देवदत्ताऽथ नृत्यार्थ - माहूता राजवेत्रिणा || मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ ८५ ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयंस्तां चा - ऽनर्तयद्धूर्तनायकः ॥ ८६ ॥ नाटकं कान्तं, भूकान्तो विस्मितो भृशम् || याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ ८७ ॥ गाढप्रेमा ततो मूल- देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ ८८ ॥ मूलदेवस्तु तत्रापि न द्यूतव्यसनं जहाँ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ ८९ ॥ कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः ॥ तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ ! ॥ ९० ॥ तयेत्युक्तोऽपि नात्याक्षी-न्मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ! ॥ ९१ ॥ तस्यां पुर्या सार्थवाहो - ऽचलाह्वोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा - देवदत्तारतोऽभवत् ॥ ९२ ॥ यद्यत्साऽमार्गयत्तत्त-त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ॥ ९३ ॥ तत्राऽऽ
UTR-1