________________
।। २०२॥
गच्छास्मन्निकेतनम् ॥२१॥ मूलदेवोऽवदत्कुम्जे !, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ २२ ॥ यदुक्तं-“या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ २३॥” तेनेत्युक्ताऽपि सा चाटु-शतैरावय॑ तं भृशम् ॥ सनिर्बन्धं करे धृत्वा-ऽचीचलन्निलयं प्रति ॥ २४ ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाद्विद्या-प्रयोगाच्च व्यधाजुम् ॥ २५ ॥ ततस्सविस्मयानन्दा, सा तं प्रावीविशद्गृहे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ २६ ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ॥ २७॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्ते तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥२८॥ | वैदग्ध्यगर्भेरालापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, ववशं विदधे द्रुतम् ॥ २९ ॥ यतः- "अणुणयकुसलं परिहा-सपेसलं लडहवाणिदुल्ललिअं॥ आलवणंपि हु च्छेआ-ण कम्मणं किं च मूलीहिं? ॥३०॥" अथैको वैणिकस्तत्रा-ऽऽययौ वीणाविशारदः ॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ ३१ ॥ तामाकर्ण्य प्रमुदिता, देवदत्तैवमब्रवीत् ॥ साधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ ३२॥ स्मित्वाऽथ वामनः प्रोचे-ऽवन्तीलोकोऽखिलोप्यहो ॥ शुभाशुभविभागं दाग , वेत्ति कामं विचक्षणः ! ॥ ३३ ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यददस्यदः ? ॥ ३४ ॥ सोऽवादीकिमपि न्यूनं, वर्तते न भवादृशाम् ॥
UTR-1