________________
उत्तराध्ययन
।। २०१ ।।
सः ॥ ६ ॥ तत्राशेषगुणाढ्येऽपि, घृतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ ७ ॥ पित्रादिभिर्निषिद्धोऽपि द्यूतासक्तिं स नामुचत् ॥ व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ! ॥ ८ ॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः || मानान्निजपुरं हित्वा भ्रमन्नुज्जयनीं ययौ ॥ ९ ॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ॥ १० ॥ रूपलावण्यविज्ञान - कलाकौशलशालिनी ॥ तत्रासीद्देवदत्ताह्वा, वेश्या वर्ग इवोर्वशी ॥ ११ ॥ तां सर्वोत्कृष्टसकल - कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं न दक्षोऽपि क्षमोऽभवत् ॥ १२ ॥ लोकेभ्यस्तत्स्वरूपं त- न्मूलदेवो निशम्य ताम् ॥ दिक्षामास दक्षो हि, दक्षमन्यं दिक्षते ॥ १३ ॥ ततो निशान्ते गत्वा स तन्निशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हर्तु गीतं गातुं प्रचक्रमे ॥ १४ ॥ गीतं स्फीतमाकर्ण्य - दञ्चद्रोमाञ्चकञ्चुका ॥ देवदत्ताऽभवद्भूरि- सुधापूरैरिवार्दिता ॥ १५ ॥ गीतेन तेन हलोहाकर्षायस्कान्तबन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ १६ ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्यातिबन्धुरा ॥ तद्गातासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ॥ १७ ॥ ध्यात्वेति चेटिकामेकां, सा प्रैषीत्तं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या - ऽऽगता तामित्यभाषत ॥ १८ ॥ गन्धर्वो वामनाकारः कोऽपि खामिनि ! गायति ॥ कुरङ्गमदवद्रूप -मन्तरापि मनोहरः ॥ १९ ॥ तदाकर्ण्य तमाद्वातुं, प्रैषीन्माधविकाभिधाम् ॥ कुब्जां दासीं देवदत्ता, साऽपि गत्वेति तं जगौ ॥ २० ॥ अस्माकं खामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे ! प्रसीद त्व-मा
तृतीयमध्य यनम् (३)
UTR-1