________________
।। २०० ।।
॥ १३ ॥ तेन रत्नौघलाभेन, हृष्टास्ते वणिजां व्रजाः ॥ जग्मुः पारसकूलादी - निजदेशान् द्रुतं द्रुतम् ! ॥ १४ ॥ रलविक्रयसआत-वित्तकोटिमितान् ध्वजान् ॥ सोत्सवं तत्सुताः स्वीय- सौधेऽध्यारोपयंस्ततः ॥ १५ ॥ वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौघविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ॥ १६ ॥ इत्यूचे च सुतान् कोप- कम्प्र - कायोरुणेक्षणः ॥ रे लक्ष्मीकन्दकुद्दालाः !, यूयं निर्यात मगृहात् ॥ १७ ॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं युष्माभिर्नान्यथा पुनः ! ॥ १८ ॥ इति तेनोदितास्तस्य तनया विनयान्विताः ॥ प्रत्याशमभ्रमन् रत्न- प्राप्तिं प्रत्याशयाकुलाः ॥ १९ ॥ अन्यान्यदेशवास्तव्य - वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि तं रत्नौघं न लेभिरे ॥ २० ॥ मरुन्महिम्ना यदि वाऽश्रुवीरं - स्तं रत्नराशिं धनदस्य पुत्राः ॥ च्युतो नरत्वात्कृतपापकर्मा, नरोधिगच्छेन्न तु मानुषत्वम् ! ॥ २१ ॥ इति रत्नदृष्टान्तः पञ्चमः ॥ ५ ॥ अथ खप्नदृष्टान्तः, तथा हि
,
अभूद्भूभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप - तिलकश्रियमाश्रयन् ॥ १ ॥ तत्रासीत्पाटलीपुत्रं पुरं सुरपुरोपमम् ॥ मूलदेवो राजपुत्र - स्तत्राऽभूद्रूपमन्मथः ॥ २ ॥ उदारचित्तः सकल- कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान - विज्ञो विमलधीनिधिः ॥ ३ ॥ शूरः प्रतिज्ञानिर्वाही, धूर्त्तविद्यैकसेवधिः ॥ सोऽभूदुचितविद्दीनानाथबन्धुर्गुणप्रियः ॥ ४ ॥ [ युग्मम् ] तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ॥ ५ ॥ कुतूहलैर्नवनवे - मानवान् विस्मयं नयन् ॥ वृत्तो मित्रैः पुरे तत्रा - ऽचरत् खेचरवच्च
UTR-1