SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ॥१९९ ।। भावादथवा स सर्वान् , स्तम्भान् विजित्यापि लभेत राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्न- । रत्वम् ! ॥ २१ ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ ४ ॥ अथ रत्नदृष्टान्तः, तथा हि पुरे धनसमृद्धेऽभू-द्धनदाह्वो वणिग् जरी ॥ प्रभूतरत्नकोटीनां, प्रभुः प्रभुरिवाम्भसाम् ॥१॥ उदारं व्यवहार च, कारं कारं सदापि सः॥ उपार्जितैरपि धन-यत्नाद्रनान्युपाददे ॥ २॥ धनदः स्वधनं तच्च, नैव कस्याप्यवोचत ॥ आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ॥३॥ विश्वासं खीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधान| मिव भोगीन्द्र-स्तं रनौघं ररक्ष सः !॥४॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ॥ अनेकधनकोटीनां, स्वामिनो धनदोपमाः ॥ ५॥ ते च खीयेषु सौधेषु, पताकाः कोटिसंमिताः ॥ खैरमुत्तम्भयामासु-नानावर्णविराजिताः ॥६॥ वेलद्भिस्तै_जैस्तेषां, सुधाशुद्धा बभुहाः ॥ हिमाद्रिशिखराणीव, सन्ध्यात्रैः पवनेरितैः ॥ ७॥ धनदस्तु ध्वज नैवो-त्तम्भयामास कर्हिचित् ॥न श्रीणामनुसारेण, वेषादिकमपि व्यधात् !॥ ८॥ ततो महत्वमिच्छन्तः, सुतास्तस्येत्यचिन्तयन् ॥ रोरवच्चेष्टते रत्न-बजे सत्यपि नः पिता!॥९॥ रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ ॥ ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् ! ॥ १० ॥ तदयं जातयामश्चे-द्याति क्वापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ ११॥ व्यापारार्थमथान्येधु-वृद्धे देशान्तरं गते ॥ प्रारेभिरे ते रत्नानां, विक्रय प्रीतचेतसः ॥ १२॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि देशान्तरागताः॥ रत्नानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy