________________
।। १९८ ।।
तावत्खरक्षणोपायं, सद्यः कञ्चित्करोम्यहम् ॥ ७ ॥ विमृश्येति महाबुद्धिः प्रणामायागतं सुतम् ॥ इति प्रोवाच तद्भाव -मविदन्निव भूधवः ॥ ८ ॥ राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरम्यहम् ॥ स्वकीयकुलमर्यादां, नोल्लङ्घयितुमुत्सहे ॥ ९ ॥ अतिक्रामन् हि मर्यादा - माचीर्णी पूर्वपूरुषैः ॥ शलभोग्निमिवोलङ्घ - मानो विपदमक्षुते ! ॥ १० ॥ कुप्येत्कुलाधिदेवी च, मर्यादोलकाय तत् ॥ समाकर्णय तां राज्य - सुखभूरुहसारणीम् ॥ ११ ॥ उयानुक्रमं राज्य-मभिकांक्षति यः सुतः ॥ जनको वा स्वयं यस्मै, राज्यं दातुं समीहते ॥ १२ ॥ स चेत्सुतो जयेत्तातं, द्यूते राज्यं तदाऽश्रुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां त्वया ॥ १३ ॥ अस्यां सभायां स्तम्भानां वर्त्ततेऽष्टोत्तरं शतम् ॥ अश्रयोऽपि प्रतिस्तंभं वर्तन्तेऽष्टोत्तरं शतम् ॥ १४ ॥ तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टो तरशतं वारान् द्यूते जयति मां भवान् ॥ १५ ॥ अश्रिरेका तदा स्तम्भ - स्यैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां जये स्तम्भो भवेजितः ॥ १६ ॥ इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः ॥ १७ ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकृदप्यन्य - स्त्रीसङ्गे ब्रह्मचर्यवत् ॥ १८ ॥ इत्याकर्ण्य पितुर्वाक्यं भूपभूरित्यचिन्तयत् ॥ द्यूताचेलभ्यते राज्यं को हन्याजनकं तदा १ ॥ १९ ॥ ध्यात्वेति स समं राज्ञा द्यूतक्रीडां प्रचक्रमे ॥ विजित्य निखिलान् स्तंभा न तु राज्यमविन्दत ॥ २० ॥ सुरानु
UTR-1