SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १९७ ।। राजमाषयवत्रीहि-कलायक्कंगुकोद्रवाः || ५ || मकुष्टकाढकीवल- कुलत्थशणचीनकाः । युगन्धरी मसूरी चा ऽतसीकलमषष्टिकाः || ६ ||" इत्यादीन् सस्यराशींस्तान्, भरत क्षेत्रमध्यगान् ॥ संमील्य रचयेत्कोऽपि, पुञ्जमभ्रलिहं सुरः ॥ ७ ॥ सर्षपप्रस्थमेकं च, तत्र क्षिप्त्या करम्बयेत् ॥ तान् सर्पपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ॥ ८ ॥ जरती सा जराकम्प्र - करा शूर्पकधारिणी । विगललोचना भूरि-विलोलवलिवरी ॥ ९ ॥ विविच्य धान्यराशींस्तान्, पिण्डितानखिलानपि । तैरेव सर्षपैः प्रस्थं किं भूयोऽपि प्रपूरयेत् ? ॥ १० ॥ [ युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि - द्विवेचयेत्तानपि सर्षपान् सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ॥ १ ॥ इति धान्यदृष्टान्तः ॥ ३ ॥ अथ द्यूतदृष्टान्तः, तथा हि अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाप्त - यौवराज्यः सुतोऽभवत् ॥ १ ॥ स चेत्यालोचयामासा - ऽन्यदा मित्रादिभिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! || २ || आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथञ्चन ॥ राज्ञे व्यज्ञपयत्सोऽपि तन्निशम्येत्यचिन्तयत् ॥ ३ ॥ असम्भाव्यमिदं तात - मपि यन्मारयेत्सुतः ! ॥ शशाङ्कः शोषयेद्वा-र्द्धिमिति हि श्रदधीत कः ? ॥ ४ ॥ लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवज्जनः ॥ नैव कार्यमकार्य वा, निडो वेत्ति किञ्चन ! ॥ ५ ॥ यदुक्तं - "नोवेक्खइ कुलजाई, पेम्मं सुकयं च गणइ न य अयसं ॥ लुद्धो कुणइ अकजं, मारइ पहु बंधु मित्तंपि ! ॥ ६ ॥ " तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् ॥ तृतीयमध्ययनम् (३) UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy