SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ।।१९६ ।। मात्कोष्ठा-गारपूरणसंमितान् ॥ १५१ ॥ इत्यादाय श्रियं तेभ्यो-ऽपरादपि जनवजात् ॥ द्रव्यमादातुमकरो-चाणक्यो यन्त्रपाशकान् ॥ १५२ ॥ केप्याहुदैवतादत्ता, देवनास्तस्य तेऽभवन् ॥ ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययो ॥ १५३ ॥ इत्यूचे च जनान् यो हि, द्यूते जयति मां जनः ॥ तस्मै ददामि नियतं, दीनारानखिलानमून् ॥ १५४ ॥ जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् ॥ तच्छ्रुत्वारेभिरे रन्तुं, लुब्धास्तेन समं जनाः ॥१५५ ॥ द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलंभूष्णुरभूत्तषां, पाशकानां प्रभावतः ॥१५६॥ पाशकैः सम्पदापाशै-स्तैर्निजेच्छानुवर्तिभिः ॥ विजित्य लोकांश्चाणक्यः, वर्णैः कोशमपूरयत् ॥ १५७ ॥ तं तु निर्जेतुमपरा-त्पुरादेरागता अपि ॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ १५८ ॥ दिव्यानुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥१५९ ॥ इति पाशकदृष्टान्तो || द्वितीयः ॥ २॥ अथ धान्यदृष्टान्तः___ तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः ॥ द्वात्रिंशता सहस्रैः स-द्विषयः शोभितेऽभितः ॥ १ ॥ अनेकनगरग्राम-पत्तनादिविराजिते ॥ प्रशस्तायां मेघवृष्टी, संपन्नायां घनागमे ॥२॥ सर्वधान्येषु चोप्पु, कृपिदक्षैः कृषीवलैः ॥ तनिष्पत्ती प्रकृष्टायां, जातायां निरुपद्रवम् ॥ ३॥ बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि ॥ समग्रजन्तुजीवातु-कल्पानि सरसानि च ॥४॥ [चतुर्भिः कलापकम् ] तथा हि-"शालिगोधूमचनक-मुद्गमापतिलाणुकाः ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy