SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ।। १९४ ।। हन्यते ! ॥ १२२ ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः ॥ अनुशिष्टो भ्रकुट्या च निषिद्धो मौनमाश्रयत् ॥ १२३ ॥ ततः पर्वतकोर्वीशः प्रपेदे नामशेषताम् ॥ उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ! ॥ १२४ ॥ तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूव चन्द्रगुप्तस्या- धीनं भाग्यैकसेवधेः ॥ १२५ ॥ तदा च केऽपि तद्राज्ये, चौर्य नन्दनरा व्यधुः ॥ अन्यमारक्षकं कञ्चि - चाणक्योऽमार्गयत्ततः ॥ १२६ ॥ अगाच नलदामाह - कुविन्दस्य गृहं भ्रमन् ॥ मत्कोटकविलेप्वग्निं, क्षिपन्तं तं ददर्श च ॥ १२७ ॥ किं करोपीति चाणक्य - स्तमप्राक्षीच सादरम् ? | उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमत्रवीत् ॥ १२८ ॥ दुष्टान्मत्कोटकानेतान्, मत्सूनोर्दशदायिनः ॥ सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ॥ १२९ ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् ॥ गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ १३० ॥ तस्मै पुराध्यक्षतां च चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विश्वास्या - खिलांचौरान् जघान तान् ॥ १३१ ॥ एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टकेऽन्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ॥ १३२ ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्तविवेकास्ते ततोऽभवन् ॥ १३३ ॥ तेषून्मत्तेषु नृत्यत्सू - त्पतत्सु प्रपतत्सु च ॥ चाणक्योऽपि क्षीवचेष्टा - मनुतिष्ठन्नदोऽवदत् ॥ १३४ ॥ त्रिदण्डं धातुरक्ते द्वे, चीवरे स्वर्णकुण्डिका ॥ वशंवदो मे भूमांच, तन्मे वादय होलकम् ! ॥ १३५ ॥ तनिशम्याऽपरः सीधु - पानान्धो मदमुद्वहन् ॥ कस्याप्यनुक्तां खां लक्ष्मीं, प्रादुष्कुर्वन्निदं जगौ ॥ १३६ ॥ योजनानां UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy