________________
उत्तराध्ययन
तृतीयमध्य यनम् (३)
।। १९३॥
वीक्ष्य खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ १०८ ॥ हे पुत्रि! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्रयामु द्रुतं राज-पुत्र्यो हि स्युः खयंवराः ॥ १०९ ॥ याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ॥ ११०॥ चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे ॥ देवात्ताबदभज्यन्त, द्रुतं तस्यारका नव ॥ १११ ॥ अमङ्गलकरीं तां च, ज्ञात्वा चन्द्रो न्यवारयत् ॥ चाणक्यस्तं ततोऽवादी-द्वत्सेमा मा निषेधय ॥ ११२॥ यदनेन निमित्तेन, सुन्दरोदर्कवादिना ॥ पुरुषान्नव यावत्ते, वंशो भावी महर्द्धिकः ॥ ११३ ॥ मूर्त्तामिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गुहे ते त्रयोऽप्यगुः ॥ ११४ ॥ तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना ॥ आजन्माभोजयत्तां हि, नन्दरा विषमं विषम् ॥११५॥ तां च पर्वतकः प्रेक्ष्य, जज्ञे गाढानुरागभाक् ॥ चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ॥ ११६ ॥ तदैव तस्या विवाह, प्रारंभे स महीपतिः॥ संक्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ ११७॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ॥ हे मित्र ! याम्यहं मूर्छा-मुरगग्रस्तबद्भशम् ॥ ११८ ॥ तत्पाहि पाहि मां वत्स!, कुरु काञ्चित्प्रतिक्रियाम् ॥ अन्यथाहं मरिष्यामि, नियतं व्यथयानया ॥ ११९ ॥ ततो जाङ्गुलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् ॥ चाणक्योऽन्वशिषचन्द्र-गुप्तमेवं तदा शनैः ॥ १२० ॥ पश्चान्मार्योऽप्यऽयं मौर्य !, म्रियते वयमेव चेत् ॥ तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ॥ १२१ ॥["अन्यच"-तुल्या) तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् ॥ अर्धराज्यहरं मित्रं, यो न हन्यात्स
UTR-1