________________
।।१९२ ।।
नन्ददेशस्य साधनम् ॥९३॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ ९४ ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोथ त्रिदण्डिकः ॥ सकलापाः सप्त देव्यो-ऽपश्यदिन्द्रकुमारिकाः ॥१५॥ अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य सः॥ मयैताः कथमुत्थाप्या, विममर्शति यावता ॥९६ ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नागराः ॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ॥ ९७ ॥ ततः प्रोवाच चाणक्यो, यावदत्र | भवन्त्यमूः ॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ ९८ ॥ पौरास्तेऽथ ततः स्थाना-त्ताः क्षिप्रमुदपाटयन् ॥ धूतैः प्रतारितानां हि, नाऽकार्य किञ्चिदङ्गिनाम् ! ॥ ९९ ॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां | द्रुतं तच्चा-ऽऽकोच्चमुमुदे जनः ॥ १०॥ भूयो व्याघुट्य तो क्षिप्र-मग्रहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥१०१ ॥ प्रवर्धमानसैन्यादि-संयुतास्ते त्रयोऽप्यऽथ ॥ अवेष्टयन्नन्दपुरं, निधानमिव भोगिनः ॥ १०२ ॥ तदा च क्षीणपुण्यत्वात् , क्षीणबुद्धिपराक्रमः ॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत !
॥१०३॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरानियहि निर्भयः ॥ १०४ ॥ नXन्दोऽपि द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-निर्ययौ दीनतां गतः ॥१०५॥ चाणक्यचन्द्र
गुप्तौ च, स च पर्वतको नृपः ॥ पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ॥ १०६ ॥ तदा च सा नन्दसुता, चन्द्रगुप्त निरक्षत ॥ सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ॥ १०७ ॥ चन्द्रगुप्तास्यचन्द्रैक-चकोरायितलोचनाम् ॥
UTR-1