SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ।। १९१ ।। वेति जठरं तस्य, चाणक्यो दारयत्खयम् ॥ खार्थसिद्धयै परद्रोह-करान् धिग् धिग् नराधमान् ! ॥ ७९ ॥ ततो हृत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ॥८०॥ मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिनात्यये ॥ अगात्तत्र च मिक्षायै, भ्राम्यन् रोरगृहं ययौ ॥ ८१ ॥ तदा च तस्य गेहस्य, खामिन्या वृद्धयैकया ॥ बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ॥८२॥ तस्यामेकः शिशुर्बादं, क्षुधितः प्रक्षिपन् करम् ॥ दग्धा- | गुली रुरोदोच्च-स्तं च वृद्धत्यभाषत ॥ ८३॥ वेत्सि चाणक्यवन्नैव, किञ्चित्त्वमपि मूढ रे!॥ तनिशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ॥ ८४ ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिदमभ्यधात् ॥८५॥ यथा हि पूर्व चाणक्यो, बाह्यं देशमसाधयन् ॥ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम् | ॥८६॥ बालकोऽपि तथैवाय-मलिहन् परितः शनैः॥ मध्य एव क्षिपन् पाणिं, दाहमत्युग्रमासदत् ॥ ८७॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निर्बुद्धि-र्बालादपि विशिष्यते ॥ ८८॥ तच्छ्रुत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् ॥ चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ॥ ८९ ॥ तत्र राज्ञा पर्वतकाभिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कांक्षन् साहायकं ततः॥९०॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्समीहसे ॥ नन्दमुन्मूल्य तद्राज्यं, विभज्यादद्वहे तदा ॥९१॥ मम बुद्धिबलं सैन्य-बलं च भवतोऽतुलं ॥ कास्मिनिर्मिते विश्व-श्लाघ्यतां लभतां सखे ! ॥९२॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः ॥ सचन्द्रगुप्तः प्रारेभे, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy