SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ ।। १८८ ।। तिष्ठिपत् ॥ ३४ ॥ तया दास्येति चाणक्यो - ऽधिक्षिप्तः प्रज्वलन् कुधा ॥ समक्षं सर्वलोकाना -ममुं चक्रे प्रतिश्रवम् ॥३५॥ “कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्व विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ! ॥ ३६ ॥ प्रतिश्रुत्येति चाणक्यो, निरगान्नगराद्वहिः ॥ अनेन भिक्षुणा किं स्यादिति राज्ञाप्युपेक्षितः ! ॥ ३७ ॥ पित्रा प्रोक्तं स्मरन् बिम्बा - न्तरितं राज्यमात्मनः । बिम्बभूतं नरं सोऽथ, प्राप्तुकामोऽभ्रमद्भुवि ॥ ३८ ॥ मयूरपोषकग्रामं, सोथागान्नन्दभूपतेः ॥ परित्राजकवेषेण, भिक्षार्थं तत्र चाऽभ्रमत् ॥ ३९ ॥ तत्रासीद्वामणीपुत्र्याः, शशभृत्पानदोहदः ॥ तं च पूरयितुं कोऽपि नाऽशकन्मतिमन्तरा ॥ ४० ॥ तस्याऽपूत च सा बाला, लतेव तनुतां दधौ ॥ ari हि दोहदापूर्त्तव्याधिमरणं स्मृतम् ! ॥ ४१ ॥ तदा च प्रेक्ष्य चाणक्यं तस्याः पित्रादिबन्धवः ॥ इत्यपृच्छंश्चन्द्रपान - दोहदः पूर्यते कथम् १ ॥ ४२ ॥ चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ॥ ४३ ॥ अपूर्णदोहदा गर्भान्विता मा त्रियताभियम् ॥ तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ॥ ४४ ॥ सच्छिद्रमथ चाणक्यो ऽचीकरत्पटमण्डपम् ॥ तस्योर्द्धश्चाऽमुचच्छन्नं नरं छिद्रपिधायकम् ॥ ४५ ॥ छिद्रस्य तस्य चाऽधस्ता-न्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्त्तिकीचन्द्र - स्तत्र प्रतिमितिं दधौ ॥ ४६ ॥ प्रतिबिम्बं च तचान्द्र-मन्तर्वव्याः प्रदर्श्य सः ॥ पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ ४७ ॥ चन्द्रपानधिया स्थाल–पयः साऽपाद्यथायथा ॥ पिदधे मण्डपछिद्र - मुपरिस्थस्तथा तथा ॥ ४८ ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy