________________
उत्तराध्ययन
।। १८९ ।।
परिभ्रमन् ॥ चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ॥ ४९ ॥ सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् ॥ तं || तृतीयमध्यच पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥५०॥ ववृधे चन्द्रगुप्तोऽपि, खजनान् मोदयन् क्रमात् ॥ औदार्यधैर्यगाम्भीर्य- यनम् (३) सौन्दर्यादिगुणैः समम् ॥ ५१॥ स बालकैः सह क्रीडां, कुर्वन्नुर्वीशवत्सदा ॥ ददौ प्रामादिकं तेषां, हयीकृत्यारुरोह |* तान् ॥५२॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ ॥ अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ॥ ५३॥ महाराज ! ममाऽपि त्वं, किञ्चिदेहीति चाऽब्रवीत् ॥ ततश्चन्द्रोऽवदद्विप्र!, गृहाण सुरभीरिमाः ॥ ५४॥ चाणक्योऽथाऽब्रवीदेता, गावो गृह्णन् विभेम्यहम् ॥ बमाण चन्द्रो मा भैषी-वीरभोग्या हि भूरियम् ॥ ५५ ॥ ततः पप्रच्छ | चाणक्यः, कस्यायमिति बालकान् ? ॥ शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ ५६ ॥ जगुर्बालाः परिव्राजः, I पुत्रोऽसौ विप्र ! वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् !॥ ५७ ॥ चाणक्योऽथ खकीयं तं, बालं ज्ञात्वेत्यभाषत ॥ एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥ ५८ ॥ तच्छुत्वा द्रुतमायातं, हृत्वा तं राज्य कांक्षिणं ॥ चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः ॥ ५९॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन ॥ रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय सः॥६०॥ ततो नन्देन तत्सैन्ये, खल्पत्वाद्विद्रुते द्रुतम् ॥ चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ! ॥६१॥ ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो बहून्॥आदिश्य प्राविशत्तुष्टैः, पौरैः क्लृप्तोत्सवे पुरे॥६२॥ तेषां नन्दाश्ववाराणां, मध्यादेकः समाययौ ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना ॥ ६३ ॥ दूराद्वीक्ष्य तमायान्तं,
UTR-1