SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ।। १८६ ।। ध्यात्वेति घृष्ट्वा तद्दन्तान् , स साधुभ्यस्तदप्यवक् ॥ ५॥ मुनयोऽप्यवदन्नेव-मयं हि रदघर्षणात् ॥ भविता भूपतिबिम्बा-न्तरितो भरितो गुणैः ॥ ६ ॥ ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता ॥ सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धिं दधौ क्रमात् ॥ ७ ॥ कलिन्दिकाः कण्ठपीठे, स चकार खनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितोऽश्रयत् ॥ ८॥ यौवने पर्यणेषीच, कुलीनां विप्रकन्यकाम् ॥ निर्धनोऽपि हि सन्तोषा-द्रव्यार्थ नोद्यमं व्यधात् ! ॥९॥ अन्यदा तत्प्रिया भ्रातु-विवाहेऽगाद्गृहे पितुः ॥ निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता ! ॥ १० ॥ महेad भ्यब्राह्मणोदूढा-स्तद्भगिन्योऽपरा अपि ॥ तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ॥ ११ ॥ तासां परिजनः सर्व श्चक्रे भूयांसमादरम् ॥ वाक्यैः पैञ्जषपीयूष-भूयः सम्भाषणादिकम् ! ॥१२॥ चाणक्यस्याऽङ्गनां तां तु, न किञ्चिकोऽप्यऽजल्पयत् ॥ आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ १३ ॥ तां च भूषणताम्बूल-गन्धमाल्यादिवर्जिताम् ॥ बन्धुवर्गो भगिन्यादि-रपि बाढमहीलयत् ॥ १४ ॥ भ्रातृजायादयोऽप्यऽस्याः, प्रतिपत्तिं न चक्रिरे ॥ पतिभेदञ्च नियतं, भोजनादावपि व्यधुः!॥ १५॥ ततोऽतिलजितोद्विग्ना, दौःस्थ्यात्प्राप्ता पराभवम् ॥ कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ॥ १६ ॥ विवाहोत्सवपूर्ती तु, सा खीयैरेव चीवरैः ॥ आगात्पत्युहे शोकस्रवदश्रुजलाविला ॥ १७ ॥ चाणक्येनाऽथ तदुःख-दुःखिना दुःखकारणम् ॥ पृष्टाऽपि सा तत्कुस्थान-व्रणवन्न ह्रियाऽवदत् ॥ १८ ॥ ततो भा सनिर्बन्ध-मुक्ता मुक्तागणोपमम् ॥ मुञ्चन्त्यश्रुव्रज स्माह, कथञ्चित्तं पराभवम् ॥१९॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy