________________
उत्तराध्ययन
।। १८५॥
पतिः॥२५॥ तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! ॥प्रत्यक्षात्कल्पवृक्षाकिं, करीरं कोऽपि याचते ? ॥२६॥
तृतीयमध्यत्वमेतद्याचमानो हि, याञाभ्यासान्न लज्जसे ! ॥ विडम्बनाप्रायमिदं न त्वहं दातुमुत्सहे ! ॥ २७॥ तत्त्वं वृणुष्व || यनम् (३) देशाद्यं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाभ्यणे, मुंव वैषयिकं सुखम् ॥ २८॥ विप्रः प्रोचे न देशाद्यैः, कार्य मम महीपते ! ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेद्दातुमीहसे ! ॥ २९ ॥ तदाकर्ण्य नृपोऽध्यासी-दहो ! सत्यपि दातरि ॥ नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ॥ ३०॥ ध्यात्वेति चक्री तद्वाचं, प्रतिप्रद्य वसमनि ॥ तस्मै भोजनदीनारौ, ददौ दिव्ये च चीवरे ॥ ३१॥ ततः प्रतिगृहं विप्रो, भुञ्जानोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, न प्रापापारसद्मनः ! ॥ ३२ ॥ तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः ॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमानयात् ! ॥ ३३ ॥ दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्यान्न तु धर्महीनः, पुनर्नरत्वं | लभते प्रमादी!॥ ३४ ॥ इति चोलकदृष्टान्तः प्रथमः ॥१॥ अथ पाशकदृष्टान्तः
तथा हि गोलविषये, ग्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विप्रोऽभूचणकाह्वयः ॥ १ ॥ अन्यदा तद्गृहे तस्थुआनिनः केऽपि साधवः ॥ तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ॥ २॥ जातमात्रं च तं बालं, मुनिभ्योऽनमयद्द्विजः॥ हे भदन्ताः ! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥३॥ ततस्ते मुनयः प्रोचु-र्बालोऽयं भविता नृपः॥ तच्छ्रुत्वा चणको भूरि-विषण्णो ध्यातवानिदम् ॥४॥ मत्सुतोऽप्येष मायासी-द्राज्यारम्भैरधोगतिम् !॥
UTR-1