________________
।। १८२ ॥
-
"अथ तृतीयाध्ययनम्" ॥ अर्हन् । उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, तच्च किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तच्चालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्वेदमादिसूत्रम्
मूलम्-चत्तारि परमंगाणि, दुल्लहाणिह जंतुणो। माणुसत्तं सुई सझा, संजमम्मि अ वीरिअं ॥१॥ ___ व्याख्या-चत्वारि चतुःसंख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, जन्तोदेहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यतः-"एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण ॥ जीवाणं संसारे, सुदुल्लहं माणुसं जम्मं ॥१॥" श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । यतः"आलस्स मोहेवण्णा, र्थमा कोही पैमाय किंवण्णत्ता ॥ भय सोगा अण्णाणा, वक्खेव कुऊहला रैमणा ॥१॥ एएहिं कारणेहिं, लण सुदुलहंपि माणुस्सं ॥ न लहइ सुई हिअरिं, संसारुत्ताराणं जीवो ॥२॥ इति” तथा | श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः-"कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सद्दहते जिणाणहदेसिअं, चयंति बोहिं पुण केइ पाविअं ॥१॥ इति” । संयमे विरतौ, चः समुच्चये, वीर्य सामर्थ्य,
UTR-1