SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। १८१ ।। पुरकारे ७, एक्कारस वेअणिजंमि ॥२॥” यदुक्तं एकादश वेदनीये इति तेऽमी-"पंचेव आणुपुबी ५, चरिआ ६ द्वितीयमध्य सेज्जा ७ तहेव जल्ले ८ अ॥वह ९ रोग १० तणप्फासा ११, सेसेसु नत्थि अवयारो ॥३॥" तथा उत्कर्षतः समकं यनम् (२) विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोःशीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिबादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोवशतेरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, | सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राभावात् , उदयस्त्वेतेषु द्वादशानाम् । सयोगिकेवलिनि एका| दश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात् , उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाह- . | मूलम्-एए परीसहा सत्वे, कासवेणं पवेइआ।जे भिक्खूण विहण्णेजा, पुट्ठो केणइ कण्हुइत्ति बेमि॥१६॥ - व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरखामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति | शेषः, भिक्षुर्न विहन्येत न पराजीयेत, स्पृष्टो बाधितः केनाऽपि द्वाविंशतेरेकतरेणाऽपि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ ४६॥ - ജയരയരയരയരയ വലി इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय-12 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥२॥ இல்லம் UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy