________________
उत्तराध्ययन
।। १७७ ।।
शरणतामगात् ॥ १२४ ॥ एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः ॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ १२५ ॥” इत्थं चतुर्भिराख्यानै - गुरोस्तेनोदितैरपि ॥ न दुर्भावो न्यर्वर्त्तिष्टा - ऽसाध्यो रोग इवौषधैः ॥ १२६॥ ततस्तस्याऽप्यलङ्कारान्, सूरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्यै- स्तृप्यत्यच्धिरिवाम्बुभिः ॥ १२७ ॥ एवं षण्णां कुमाराणा- मात्तैराभरणत्रजैः ॥ प्रतिग्रहं दुर्विकल्पै - रात्मानं च बभार सः ॥ १२८ ॥ ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे ॥ सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ १२९ ॥ देवोऽप्येवं परीक्षाभि- स्तं प्रणष्टव्रताशयम् ॥ ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ॥ १३० ॥ तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् ॥ वीक्ष्य सूरिः ससंरम्भा - रम्भमेवमुवाच सः ॥ १३१ ॥ अञ्जिताक्षी भूरिभूषा - भूषिता तिलकाङ्किता ॥ शासनोड्डाहकृदुष्ट - साध्वि ! त्वं कुत आगता ? ॥ १३२ ॥ सूरेस्तस्येति वचनं श्रुत्वा रोषभराकुला । सा प्रतिन्यपि निःशङ्कं प्रत्युवाचेति तं द्रुतम् ॥ १३३ ॥ रे सूरे ! सर्षपाभानि, परच्छिद्राणि पश्यसि ? | आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ १३४ ॥ किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते ॥ स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ॥ १३५ ॥ यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्टुसुवर्ण सत्क्रियमुग्रविहारिणम् ॥१३६॥ तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? || विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ॥ १३७ ॥ तयेत्युडाहितः साध्व्या, तूष्णीकः स व्रजन् पुरः ॥ ददर्श सैन्यमागच्छत्, कृतं तेनैव नाकिना ॥१३८॥ भयोद्धान्तस्ततः सूरिः,
द्वितीयमध्ययनम् (२)
UTR-1