________________
।। १७६ ॥
मानः, वपुत्रैरेव सोऽन्यदा ॥ खोपज्ञं तत्तटाकादि, दृष्ट्वा खां जातिमस्मरत् ॥ ११० ॥ मयैव कारितमिदं, ममैवाभूद्विपत्तये ॥ निन्दन्नेवं वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः ॥१११॥ तथाभृतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः ॥ तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत ॥११२ ॥ खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः ॥ प्रवर्तिता मखाश्चाऽथ, किं 'बुबू' कुरुषे पशो ! ॥ ११३ ॥ इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् ॥ स्वकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ॥ ११४ ॥ तूष्णीकः साधुवाचाऽय-मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः साधु-मित्याश्चर्यभराकुलाः ॥ ११५ ॥ किमेष मेषो भगव-नाकर्ण्य भवतां वचः ॥ तूष्णीकत्वं दधौ नाग, इव मत्रवशीकृतः?॥ ११६ ॥ मुनिर्जगौ भवत्तातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ॥ ११७ ॥ ततो दुःखा(बुध्वान-मुचैः कुर्वन्मयोदितम् ॥ स्वकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ॥ ११८ ॥ ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो ! ॥ विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः? ॥ ११९ ॥ साधुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् ॥ निधि चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् ॥ १२०॥ तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतेः॥ छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्भवम् ॥१२१ ॥ ततस्तत्तनयेजांत-प्रत्यययतिसन्निधौ ॥ | स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ॥ १२२ ॥ धर्म श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो, देवभूयमविन्दत ॥ १२३ ॥प्रेत्य मे शरणं भावी-त्याशया स द्विजो यथा ॥ तटाकादि व्यधात्तच, तस्या
UTR-1