SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वतीयमध्ययनम् (२) ।।१७३ ।। खगापत्यान्यभक्षयत् ॥ ६६ ॥ ततस्ते विहगाः खीया-पत्यविध्वंसदुःखिताः ॥ कुर्वन्तस्तुमुलं प्रो-रित्थमाहुर्मुहु| मिथः ॥ ६७ ॥ अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे ॥ अस्मादेव लतायुक्ता-दद्याभूच्छरणाद्भयम् ॥ ६८॥” इत्यु- दीय कथां तस्या, भावं प्राग्वत् प्रकाश्य च ॥ तस्थुषस्तस्य शावस्या-ऽप्याददे भूषणानि सः॥६९॥ | ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥ वीक्ष्य तस्याप्यलङ्कारान् , सोऽभूदाच्छेत्तुमुत्सुकः ॥७०॥ निजामाख्यां । | समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् ॥ अवादीवीन्द्रियादीनां, चतुर्णा तत्र सम्भवात् ॥ ७१ ॥"तथा हि नगरे |* | कापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ ७२ ॥ तांश्च मध्यस्थितै- | लोकै- रन्नादिक्षयभीरुभिः ॥ निष्काश्यमानान्नगरा-द्विद्विषोऽपीडयन् भृशम् ॥ ७३ ॥ पुरं नः शरणं भावी-त्याशया विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तां-स्तदा कोऽपीत्यभाषत ॥ ७४ ॥ भीताः पौराः कर्षयन्ति, युष्मान्निघ्नन्ति च द्विषः ॥ तत्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ ७५॥" प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामब्रवीत्कथाम् ॥ ७६ ॥ "नगरे क्वाप्यभूद्भपः, स च दुष्टो निजैनरैः ॥ खीय एव पुरे चौर्य, सर्वदाऽचीकरभृशम् ॥ ७७॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्पर| मदोऽवदन् ॥ ७८ ॥ यत्र राजा खयं चौरो, भण्डकश्च पुरोहितः ॥ यात पौराः ! पुरात्तस्मा-जातं हि शरणाद्भयम् ॥ ७९ ॥” कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् ॥ नाऽनूचानोऽमुचद्स्तं, जनं दुष्ट इव ग्रहः !॥ ८॥ तत UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy