________________
।। १७२ ।।
गात्रं मे, जातं शरणतो भयम् ! || ५३ ||" इत्युक्त्वाख्यानकं तस्यो- पनयं च प्रकाश्य सः ॥ तस्थौ शिशुंस्ततस्तस्य, भूषणान्याददे गुरुः ॥ ५४ ॥
ततोऽप्यऽग्रेऽर्भकं वायु- कायाख्यं वीक्ष्य पूर्ववत् ॥ लातुं तस्याप्यलङ्कारान् सूरिरुद्यमवानभूत् ॥ ५५ ॥ सोप शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् ॥ आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्निजम् ॥ ५६ ॥ " एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघनः ॥ वातरोगगृहीतं तं प्रेक्ष्य कोऽपीति पृष्टवान् ॥ ५७ ॥ लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ॥ ५८ ॥ सोऽवादीद्यो मरुज्येष्ठा -ऽऽषाढयोः सौख्यदो भवेत् ॥ स एव बाधतेऽङ्गं मे, जातं हि शरणाद्भयम् ! ||५९ ||" आख्यानमित्युदित्वा तद्भावयित्वा च पूर्ववत् ॥ शिशोः स्थितस्य तस्यापि भूषणान्यग्रहीद्गुरुः ॥ ६० ॥
भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भृतम् ॥ स वनस्पतिकायाख्यं पञ्चमं सूरिरक्षत ॥ ६१ ॥ तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ ॥ सोऽपीत्याख्यानमाचख्यौ खाभिख्याख्यानपूर्वकम् ॥ ६२ ॥ " द्रुमे पुष्पफलाकीर्णे, क्वापि केऽप्यऽवसन् खगाः ॥ वृक्षो ह्ययं नः शरण- मिति विश्रब्धचेतसः ॥ ६३ ॥ तेषां च वसतां तत्र, निराबाधमथान्यदा ॥ अपत्यानि बहून्यन्त - नीडं क्रीडन्ति जज्ञिरे ॥ ६४ ॥ इतश्च तस्य वृक्षस्य, पार्श्वात्काऽप्युद्गता लता ॥ तं तरुं परिवेष्ट्यो चै - रारुरोह द्रुमोपरि ॥ ६५ ॥ तया च लतयाऽन्येद्यु - विलग्य भुजगो महान् ॥ आरुह्य तं द्रुमं तानि,
UTR-1