________________
उत्तराध्ययन
।। १७१ ।।
ततः पुरो व्रजन् काञ्चिदतिक्रान्तो वनीं गुरुः ॥ बालकं प्राग्वदद्राक्षी- दप्कायाख्यं द्वितीयकम् ॥ ४० ॥ तस्मिंस्तस्याऽप्यऽलङ्कारां—स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या - माख्यानं ख्यातवानिति ॥ ४१ ॥ "एकस्तालाचरश्चारु–कथाकथनकोविदः || पाटलाह्वोऽभवद्भूरि - सुभाषितरसहृदः ॥ ४२ ॥ सोऽन्यदा प्रोत्तरन् गङ्गां, नीरपूरैः प्रवाहितः ॥ तीरस्थैर्ददृशे लोकै- रित्यूचे च सविस्मयैः ॥ ४३ ॥ बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् ॥ वाह्यमानाऽस्तु भद्रं ते ब्रूहि किञ्चित्सुभाषितम् ॥ ४४ ॥ समाकर्ण्योभयाकर्णि - सकर्णस्तज्जनोदितम् ॥ लोकमेकमनश्लीलं, पाटलोऽप्येवमत्रवीत् ॥ ४५ ॥ येन रोहन्ति बीजानि येन जीवन्ति कर्षकाः ॥ तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ॥ ४६ ॥ " कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ ॥ कृपां हित्वाऽऽददे सूरि-स्तस्याप्याभरणत्रजम् ॥ ४७ ॥
ततोऽप्यग्रे व्रजंस्तेज-स्कायिकाख्यं तृतीयकम् ॥ वीक्ष्यार्भकमभूत्सूरि- स्तद्भूषाग्रहणोद्यतः ॥ ४८ ॥ ततः शिशुः प्राग्वत्प्रादुष्कृत्य निजाभिधाम् ॥ इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ॥ ४९ ॥ “क्वाप्याश्रमे तापसोऽभू-त्सर्वदा वह्निपूजकः ॥ तस्योटजेऽनले नैवा - ऽन्यदा दग्धे स इत्यवक् ॥ ५० ॥ यमहं मधुसर्पिर्भ्यां तर्पयामि दिवानिशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ॥ ५१ ॥ यद्वारण्यं गतः कश्चिद्वहिं व्याघ्रभिया निशि ॥ अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ ५२ ॥ मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ॥ दग्धं तेन च
द्वितीयमध्ययनम् (२)
UTR-1