SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ ।। १७० ।। शावं, जग्राह गलकन्दले ॥ सोऽर्भकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ २७ ॥ अस्यामटव्यां भीमायां, बिभ्यचौराद्युपद्रवात् ॥ पृथ्वीकायिकसंज्ञोऽह-मस्मि त्वां शरणं श्रितः ॥ २८ ॥ अशाश्वता बमी प्राणा, विश्वकीर्तिश्च शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ॥ २९॥ बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! ततः। तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ॥ ३० ॥ यतः-" विहलं जो अवलंबइ, आवइपडिअंच जो समुद्धरइ ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥ ३१॥” इत्याधुक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लग्न-स्तावच्छावः पुनर्जगी ॥ ३२ ॥ भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद | तद्रूहि, सोप्याख्यत् श्रूयतामिति ॥ ३३ ॥ ग्रामे क्वापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् ॥ आक्रान्तः पतता खानि-तटेनेति वचोऽवदत् ॥ ३४ ॥ यत्प्रसादाद्वलिं भिक्षां, ददे ज्ञातींश्च पोषये ॥ साऽप्याऽऽक्रामति भूमिर्मा, तजातं शरणाद्भयम् ! ॥ ३५ ॥ यथा बाजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः ॥ वराकः कुम्भकारोऽयं, तयैवोपहृतो द्रुतम् ! ॥ ३६ ॥ भगवन्नहमप्येवं, भीतस्त्वां शरणं श्रितः॥ त्वं च मुष्णासि मां तद्भी-र्ममापि शरणादभूत् ! ॥ ३७॥ तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः ॥ तद्भूषणानि जग्राह, निजग्राह च तां शिशुम् ! ॥ ३८ ॥ तानशेषानलङ्कारा-नक्षिपत्वप्रतिग्रहे ॥ व्रताद्धष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ! ॥ ३९॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy