________________
उत्तराध्ययन |
द्वितीयमययनम् (२)
॥१६९ ॥
लोके वसति कः, क्लिश्यते कुशलो मुधा ! ॥१२॥ विमृश्येति स्खलिङ्गस्थ, एव मिथ्यात्वमाश्रितः ॥ उत्प्रत्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ॥ १३ ॥ अत्रान्तरेऽवधिज्ञाना-खरूपं खगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, | विषण्णो ध्यातवानिति ! ॥ १४ ॥ अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतम- | साकुलाः! ॥ १५ ॥ अहो ! मोहस्य महिमा, जगजैत्रो विजृम्भते ॥ जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः! | ॥ १६ ॥ कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादां, कल्पान्तादिव वारिधिः ॥ १७॥ | तन्मोहप्रेरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विवोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ॥ १८ ॥ ध्यात्वेत्यागत्य स सुरः, खगुरोर्गमनाध्वनि ॥ ग्राममेकं विचक्रे तत्-पार्थे दिव्यं च नाटकम् ॥ १९॥ ततः स सूरिस्तन्नाट्यं, प्रेक्ष्यमाणो मनोहरम् ॥ ऊर्द्ध एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ २०॥ शीतातपक्षुधातृष्णा-षण्मासातिक्रमश्रमान् ॥ | दिव्यानुभावान्नाज्ञासी-तन्नाट्यं स विलोकयन् ॥२१॥ तस्मिन्नृत्येऽथ देवेन, संहृते सोऽचलत्पुरः॥क्षणमेकं शुभं नाट्यं, | दृष्टं दिष्ट्येति भावयन् ॥ २२॥ स देवोऽथ तदाकृतं, परीक्षितुमलतान् ॥ षट्र जीवकायसंज्ञान् षद्, विदधे बालकान् वने ॥२३॥ दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्या-ऽलङ्कारानाच्छिनद्यहम् ॥२४॥ एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ॥ २५ ॥ विमृश्येति स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् ॥रे! मुश्च मुञ्चालङ्कारान् , बालकः स तु नाऽमुचत् ॥ २६ ॥ ततो रुष्टः स ते
UTR-1