________________
।। १६८॥
व्याख्या-अभूवन्नासन् जिनाः केवलिनः, 'अत्थित्ति' निपातः ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुर्न चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ ४५ ॥ निदर्शनं चात्र, तथाहि___ वत्साभुमो भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ॥ १॥ यो यस्तेषां गणे | भक्तं, प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्गन्ध-मित्थं ते सूरयोऽवदन् ॥ २॥ देवभावंगतेनाऽऽशु, देयं मे शर्दनं त्वया ॥ इत्युक्तेऽपि बहूनां तै-नागात्कोऽपि दिवं गतः ॥ ३ ॥ अथाऽन्यदा खशिष्यं ते, निर्याम्यातीव वल्लभम् ॥ एवमूचुः सनिर्बन्धं, गुरवो गद्दाक्षरम् ॥ ४ ॥ स्वर्गगतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ॥५॥ मया हि बहुसाधूना-मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-ऽऽगच्छेः स्नेहम, स्मरन् ॥ ६ ॥ तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् ॥ नाययौ प्रथमोत्पन्न- सुरकायैर्विलम्बितः॥ ७ ॥तस्मिन्ननागते सद्यो, विपर्यस्तमना गुरुः ॥ एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ॥ ८॥ज्ञानदर्शनचारित्रा-राधकाः शान्तचेतसः॥ विहितानशनाः सम्य-ग्मया निर्यामिताः खयम् ॥९॥मद्वाचं प्रतिपन्नाश्च, विनेया मम ये मृताः॥ स्नेहलेष्वपि तेष्वेको-ऽप्याऽऽगानो कथमन्यथा ? ॥१०॥[युग्मम् ] तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा ॥ भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ॥११॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः ॥ पर
UTR-1