________________
उत्तराध्ययन
द्वितीयमध्ययनम् (२)
।।१६७।।
मूलम्–णत्थि नूणं परे लोए, इडिवावि तवस्सिणो। अदुवा वंचिओ म्हित्ति,इइ भिक्खू न चिंतए॥४४॥ ___ व्याख्या- नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्च प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । ऋद्धिर्वा तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेभिन्नक्रमत्वात्तपखिनोऽपि सतो ममेति गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । ‘अदुवत्ति' अथवा वञ्चितोऽस्मि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन इत्येतद्भिक्षुर्न चिन्तयेत् । यत आत्मीय आत्मा खप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण खयमनुभवात् , केवलिनां तु सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात् , उक्तश्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः ॥ अविवेकिजनाचरिता, विवेकिजनव| र्जिताः पापाः ॥ १॥” तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-" सो हु | तवो कायबो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हायति॥१॥ इति सूत्रार्थः ॥४४॥
-तथा| मूलम्-अभूजिणा अस्थि जिणा, अदुवा वि भविस्सई। मुसं ते एवमाहंसु, इइ भिक्खू न चिंतए ॥४५॥
UTR-1